📚 जितन्ते स्तोत्रम्
/ 2
📚 जितन्ते स्तोत्रम्
✅ Proofread
Actions
Save Book
🎨 Reading Font Style Noto Serif
↔️ Text Alignment Center
अथ जितन्ते स्तोत्रम् • प्रथमोऽध्यायः • जितं ते पुण्डरीकाक्ष पूर्णषाड्गुण्यविग्रह । परानन्द परब्रह्म न् नमस्ते चतुरात्मने ॥ १ ॥ नमस्ते पीतवसन नमः कटकहारिणे । नमो नीलालकाबद्ध वेणीसुन्दरपुङ्गव ॥ २ ॥ स्फुरद्बलयकेयूर नूपुराङ्गदभूषणैः । शोभनैर्भूषिताकार कल्याणगुणराशये ॥ ३ ॥ करुणापूर्णहृदय शङ्खचक्रगदाधर । अमृतानन्दपूर्णाभ्यां लोचनाभ्यां विलोकय ॥ ४ ॥ कृशं कृतघ्नं दुष्कर्म कारिणं पापभाजनम् । अपराधसहस्राणां आकरं करुणाकर ॥ ५ ॥ कृपया मां केवलया गृहाण मथुराधिप । विषयार्णवमग्नं मा मुद्धर्तुं त्वमिहार्हसि ॥ ६ ॥ पिता माता सुहृद्बन्धु र्भ्राता पुत्रस्त्वमेव मे । विद्या धनं च कामश्च नान्यत् किञ्चित् त्वया विना ॥ ७ ॥ यत्र कुत्र कुले वासो येषु केषु भवोऽस्तु मे । तव दास्यैकभावे स्या त् सदा सर्वत्र मे रतिः ॥ ८ ॥ मनसा कर्मणा वाचा शिरसा वा कथञ्चन । त्वां विना नान्यमुद्दिश्य करिष्ये किञ्चिदप्यहम् ॥ ९ ॥ पाहि पाहि जगन्नाथ कृपया भक्तवत्सल । अनाथोऽहमधन्योऽह मकृतार्थो ह्यकिञ्चनः ॥ १० ॥ नृशंसः पापकृत् क्रूरो वञ्चको निष्ठुरः सदा । भवार्णवे निमग्नं मा मनन्यकरुणोदधे ॥ ११ ॥ करुणापूर्णदृष्टिभ्यां दीनं मामवलोकय । त्वदग्रे पतितं त्यक्तुं तावकं नार्हसि प्रभ ॥ १२ ॥ मया कृतानि पापानि विविधानि पुनः पुनः । त्वत्पादपङ्कजं प्राप्तुं नान्यत् त्वत्करुणां विना ॥ १३ ॥ साधनानि प्रसिद्धानि यागादीन्यब्जलोचन । त्वदाज्ञया प्रवृत्तानि त्वामुद्दिश्य कृतानि वै ॥ १४ ॥ भक्त्यैकलभ्यः पुरुषोत्तमो हि जगत्प्रसूतिस्थितिनाशहेतुः । अकिञ्चनं नान्यगतिं शरण्य गृहाण मां क्लेशिनमम्बुजाक्ष ॥ १५ ॥ धर्मार्थकाममोक्षेषु नेच्छा मम कदाचन । त्वत्पादपङ्कजस्याधो जीवितं मम दीयताम् ॥ १६ ॥ कामये तावकत्वेन परिचर्यासु वर्तनम् । नित्यं किङ्करभावेन परिगृह्णीष्व मां विभो ॥ १७ ॥ लोकं वैकुण्ठनामानं दिव्यं षाड्गुण्यसंयुतम् । अवैष्णवानामप्राप्यं गुणत्रयविवर्जितम् ॥ १८ ॥ नित्यं सिद्धैः समाकीर्णं त्वन्मयैः पाञ्चकालिकैः । सभाप्रासादसंयुक्तं वनैश्चोपवनैः शुभैः ॥ १९ ॥ वापीकूपतटाकैश्च वृक्षखण्डैश्च मण्डितम् । अप्राकृतं सुरैर्वन्द्य मयुतार्कसमप्रभम् ॥ २० ॥ प्रकृष्टसत्त्वराशिं त्वां कदा द्रक्ष्यामि चक्षुषा । क्रीडन्तं रमया सार्धं लीलाभूमिषु केशवम् ॥ २१ ॥ मेघश्यामं विशालाक्षं कदा द्रक्ष्यामि चक्षुषा । उन्नसं चारुदशनं बिम्बोष्ठं शोभनाननम् ॥ २२ ॥ विशालवक्षसं श्रीशं कम्बुग्रीवं जगद्गुरुम् । आजानुबाहुपरिघ मुन्नतांसं मधुद्वषम् ॥ २३ ॥ तनूदरं निम्ननाभि मापीनजघनं हरिम् । करभोरुं श्रियः कान्तं कदा द्रक्ष्यामि चक्षुषा ॥ २४ ॥ शङ्खचक्रगदापद्मै रङ्कितं पादपङ्कजम् । शरच्चन्द्रशताक्रान्त नखराजिविराजितम् ॥ २५ ॥ सुरासुरैर्वन्द्यमान मृषिभिर्वन्दितं सदा । मूर्धानं मामकं देव तावकं मण्डयिष्यति ॥ २६ ॥ कदा गम्भीरया वाचा श्रिया युक्तो जगत्पतिः । चामरव्यग्रहस्तं मा मेवं कुर्विति वक्ष्यति ॥ २७ ॥ कदाऽहं राजराजेन गणनाथेन चोदितः । चरेयं भगवत्पाद परिचर्यासु वर्तनम् ॥ २८ ॥ शान्ताय सुविशुद्धाय तेजसे प रमात्मने । नमः सर्वगुणातीत । षाड्गुण्यायादिवेधसे सत्यज्ञाना नन्तगुणब्रह्मणे चतुरात्मने ॥ २९ ॥ नमो भगवते तुभ्यं वासुदेवामितद्युते चतुःपञ्चनवव्यूह । दशद्वादशमूर्तये ॥ ३० ॥ नमोऽनन्ताय विश्वाय विश्वातीताय चक्रिणे नमस्ते पञ्चकालज्ञ पञ्चकालपरायण । पञ्चकालैकमनसां त्वमेव गतिरव्ययः ॥ ३१ ॥ स्वमहिम्न स्थितं देवं निरनिष्टं निरञ्जनम् । अप्रमेयमजं विष्णुं शरणं त्वां गतोऽस्म्यहम् ॥ ३२ ॥ वागतीतं परं शान्तं कञ्जनाभं सुरेश्वरम् । तुरीयाद्यतिरक्तं त्वां कौस्तुभोद्भासिवक्षसम् ॥ ३३ ॥ विश्वरूपं विशालाक्षं कदा द्रक्ष्यामि चक्षुषा । मोक्षं सालोक्यसारूप्यं प्रार्थये न कदाचन ॥ ३४ ॥ इच्छाम्यहं महाभाग कारुण्यं तव सुव्रत । सकलावरणातीत किङ्करोऽस्मि तवानघ ॥ ३५ ॥ पुनः पुनः किङ्करोऽस्मि तवाहं पुरुषोत्तम । आसनाद्यनुयागान्त मर्चनं यन्मया कृतम् ॥ ३६ ॥ भोगहीनं क्रियाहीनं मन्त्रहीनमभक्तिकम् । तत्सर्वं क्षम्यतां देव दीनं मामात्मसात् कुरु ॥ ३७ ॥ इति स्तोत्रेण देवेशं स्तुत्वा मधुनिघातिनम् । यागावसानसमये देवदेवस्य चक्रिणः । नित्यं किङ्करभावेन स्वात्मानं विनिवेदयेत् । ब्रह्मोवाच- ॥ ३८ ॥ ॥ इति जितन्ते स्तोत्रे प्रथमोऽध्यायः ॥ >द्वितीयोऽध्यायः जितं ते पुण्डरीकाक्ष नमस्ते । विश्वभावन । नमस्तेऽ स्तु हृषीकेश ॥ ३९ ॥ महापुरुषपूर्वज विज्ञापनमिदं देव । शृणुष्व पुरुषोत्तम । नरनारायणाभ्यां च ॥ ४० ॥ श्वेतद्वीपनिवासिभिः नारदाद्यैर्मुनिगणैः । सनकाद्यैश्च योगिभिः । ब्रह्मेशाद्यैः सुरगणैः ॥ ४१ ॥ पञ्चकालपरायणैः पूज्यसे पुण्डरीकाक्ष । दिव्यैर्मन्त्रैर्महात्मभिः । पाषण्डधर्मसङ्कीर्णे ॥ ४२ ॥ भगवद्भक्तिवर्जिते कलौ जातोऽस्मि देवेश । सर्वधर्मबहिष्कृते । कथं त्वामसमा दा चारः ॥ ४३ ॥ पापप्रसवभूरुहः अर्चयामि दयासिन्धो । पाहि मां शरणागतम् । तापत्रयदवाग्नौ मां दह्यमानं ॥ ४४ ॥ सदा विभो पाहि मां पु ण्डरीकाक्ष केवलं कृ । पया तव । जन्ममृत्यु जराव्याधिदुःखसन्तप्तदेहिनम् ॥ ४५ ॥ पालयाशु दृशा देव तव कारुण्यगर्भया । इन्द्रियाणि मया जेतु मशक्यं ॥ ४६ ॥ पुरुषोत्तम शरीरं मम देवेश व्याधिभिः । परिपीडितम् । मनो मे पुण्डरीकाक्ष ॥ ४७ ॥ विषयानेव धावति वाणी मम हृषीकेश । मिथ्यापारुष्यदूषिता । एवं साधनहीनोऽहं किं ॥ ४८ ॥ करिष्यामि केशव र क्ष मां कृपया कृष्ण भ । वाब्धौ पतितं सदा अ पराधसहस्राणां ॥ ४९ ॥ सहस्रमयुतं तथा । अर्बुदं चाप्यसङ्ख्येयं । करुणाब्धे क्षमस्व मे यं चापराधं कृतवान् अज्ञानात् ॥ ५० ॥ पुरुषोत्तम । अज्ञस्य मम देवेश तत् सर्वं । क्षन्तुमर्हसि अज्ञत्वा दल्पशक्तित्वादालस्याद्दुष्टभावनात् ॥ ५१ ॥ । कृतापराधं कृपणं । क्षन्तुमर्हसि मां विभो अपराधसहस्राणि ॥ ५२ ॥ क्रियन्तेऽहर्निशं मया । तानि सर्वाणि मे देव । क्षमस्व मधुसूदन यज्जन्मनः प्रभृति मोहवशं ॥ ५३ ॥ गतेन नानापराध शतमाचरितं मया । ते । अन्तर्बहिश्च सक लं तव पश्यतो हि ॥ ५४ ॥ क्षन्तुं त्वमर्हसि हरे करुणावशेन कर्म । णा मनसा वाचा या चे ष्टा मम नित्यशः ॥ ५५ ॥ केशवाराधने सा स्या । ज्जन्मजन्मान्तरेष्वपि ब्रह्मोवाच- ॥ ५६ ॥ ॥ इति जितन्ते स्तोत्रे द्वितीयोऽध्यायः ॥ • तृतीयोऽध्यायः जितं ते पुण्डरीकाक्ष नमस्ते । विश्वभावन । नमस्तेऽ स्तु हृषीकेश ॥ ५७ ॥ महापुरुषपूर्वज नमस्ते वासुदेवाय । शान्तानन्दचिदात्मने । अध्यक्षाय स्वतन्त्राय निरपेक्षाय ॥ ५८ ॥ शाश्वते अच्युतायावि काराय तेजसां निध । ये नमः । क्लेशकर्माद्य संस्पृष्टपूर्णषाङ्गुण्यमूर्तये ॥ ५९ ॥ त्रिभिर्ज्ञानबलैश्वर्य वीर्यशक्त्योजसां युगैः । त्रिगुणाय नमस्तेऽस्तु नमस्ते ॥ ६० ॥ चतुरात्मने प्रधान पुरुषेशाय नमस्ते । पुरुषोत्तम । चतुःप ञ्चनवव्यूहदशद्वादशमूर्तये ॥ ६१ ॥ अनेकमूर्तये तुभ्य । ममूर्तायैकमूर्तये । नारायण नमस्तेऽस्तु ॥ ६२ ॥ पुण्डरीकायतेक्षण सुभ्रूल लाट सुनसे सुस्मिताधरवि । द्रुम । पीनवृत्तायतभुज श्री वत्सकृतभूषण ॥ ६३ ॥ तनुमध्यमहावक्षः पद्मनाभ नमोऽस्तु ते । विलासविक्रमाक्रान्त त्रैलोक्यचरणाम्बुज ॥ ६४ ॥ नमस्ते पीतवसन स्फुरन्मकरकुण्डल । स्फुरत्किरीटकेयूर नूपुराङ्गदभूषण ॥ ६५ ॥ पञ्चायुध नमस्तेऽस्तु नमस्ते पाञ्चकालिक । पञ्चकालरतानां त्वं योगक्षेमं ॥ ६६ ॥ वह प्रभो नित्यज्ञान बलैश्वर्यभोगोपक । रणाच्युत । नमस्ते ब्र ह्मरुद्रादिलोकयात्राप्रवर्तक ॥ ६७ ॥ जन्मप्रभृति दासोऽस्मि शिष्योऽस्मि तनयोऽस्मि ते । त्वं च स्वामी गुरुर्माता पिता च ॥ ६८ ॥ मम बान्धवः अयि त्वां भगवन् ब्रह्मशिवश । क्रमहर्षयः । द्रष्टुं य ष्टुमभिष्टोतुमद्यापीश ॥ ६९ ॥ न हीशते तापत्रय महाग्राहभीषणे भ । वसागरे । मज्जतां ना थ नौरेषा प्रणतिस्तु ॥ ७० ॥ त्वदर्पिता अनाथाय जगन्नाथ शरण्य श । रणार्थिने । प्रसीद सी दते मह्यं मुह्यते ॥ ७१ ॥ भक्तवत्सल मन्त्रही नं क्रियाहिनं भक्तिही । नं यदर्चनम् । तत् क्षन्त व्यं प्रपन्नानामपराधसहो ॥ ७२ ॥ ह्यसि सर्वेषु देशका लेषु सर्वावस्थासु चा । च्युत । किङ्करोऽस्मि हृषी केश भूयो ॥ ७३ ॥ भूयोऽस्मि किङ्करः एक त्रिचतुरत्यन्तचेष्टा । येष्टकृते सदा । व्यक्त षाड्गुण्यतत्त्वाय ॥ ७४ ॥ चतुरात्मात्मने नमः कर्मणा मनसा वाचा या चेष्टा मम नि । त्यशः । केशवाराधने सा स्याज्ज न्मजन्मान्तरेष्वपि ब्रह्मोवाच- ॥ ७५ ॥ ॥ इति जितन्ते स्तोत्रे तृतीयोऽध्यायः ॥ > चतुर्थोऽध्यायः • जितं ते पुण्डरीकाक्ष पूर्णषा । ड्गुण्यविग्रह । नमस्तेऽ स्तु हृषीकेश ॥ ७६ ॥ महापुरुषपूर्वज देवानां दानवानां च । सामान्यमधिदैवतम् । सर्वदा चरणद्वन्द्वं व्रजामि ॥ ७७ ॥ शरणं तव एकस्त्व मस्य लोकस्य स्रष्टा सं । हारकस्तथा । अध्यक्ष श्चानुमन्ता च ॥ ७८ ॥ गुणमायासमावृतः संसारसागरं घोर । मनन्तक्लेशभाजनम् । त्वामेव शरणं प्राप्य निस्तरन्ति ॥ ७९ ॥ मनीषिणः न ते रूपं न चाकारो नायुधानि । न चास्पदम् । तथाऽपि पु रुषाकारो भक्तानां ॥ ८० ॥ त्वं प्रकाशसे नैव कि ञ्चित्परोक्षं ते प्रत्यक्षोऽ । सि न कस्यचित् । नैव कि ञ्चिदसिद्धं ते न च ॥ ८१ ॥ सिद्धोऽसि कर्हिचित् कार्या णां कारणं पूर्वं वच । सां वाच्यमुत्तमम् । योगा नां परमां सिद्धिं परमं ॥ ८२ ॥ ते पदं विदुः अहं भी तोऽस्मि देवेश संसारेऽ । स्मिन् भयावहे । पाहि मां पुण्डरीकाक्ष न जाने ॥ ८३ ॥